#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00630 Uniform title: bhuvaneśvarī pañcāṅgam rudrayāmale Manuscript : manuscript 3887 Shri Raghunatha Temple MSS Library Jammu Description: Sharada script 25 folios Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Diplomatic transcription of manuscript. Revision 0: Nov. , 21, 2023 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### भुवनेश्वरी पञ्चाङ्गम् रुद्रयामले ३८८७ Exतेन्त् २५ ष्हरद स्च्रिप्त् षुब्जेच्त्: तन्त्रं (भक्तिशास्त्रे) ओंस्वस्तिप्रजाभ्यः श्रीगणेशायनमः ओंनमोभुवनेश्वर्यै श्रीयसे || || ओंश्रीदेव्युवाच देवदेवमहादेवसर्वशास्त्रविशारदे कपालखट्वाङ्गधरचिता भस्मानुलेपन आद्यायाप्रकृतिर्नित्यामन्त्र?शास्त्रेषुगोपिता तस्याःश्रीभुवनेश्वर्याःप ञ्चाङ्गंदेवदुर्लभं कथयस्वमहादेवयथादेवीप्रसीदति श्रीमहादेवुवाच || साधुपृष्ठंत्वयादेविसाधकानांहितायवै यानित्याप्रकृतिराद्यासर्वशास्त्रेषुगोपिता य स्यश्रवणमात्रेणसर्वपापैःप्रमुच्यते आराधनाद्भवेद्यस्याजीवन्मुक्तोनसंशयः अथ वक्ष्येजगद्धात्री?मधुनाभुवनेश्वरीं ब्रह्मादयोनजानन्तिपदमव्ययमात्मनः नकुले शोग्निनारूढोवामनेत्रोचचन्द्रयान् बीजमस्यास्ममाख्यातंसमस्तसिद्धकाङ्क्षितं ऋषिःश क्तिर्भवेच्छन्दोगायत्र्यंसमुदीरितं देवतासुरसङ्घेनसेविताभुवनेश्वरी षड्दीर्घयुक्त बीजेनकुर्यादङ्गविकल्पना सारस्वतोकुमार्गेणमातृकान्यस्तविग्रहा श्रीःभुवप १ पृ० १अ) मन्त्रन्यासंततःकुर्याद्देवताभावसिद्धये हृल्लेखांमुर्ध्निवदनेगगनांहृदयाम्बु जे रक्तांकरालिकांगुह्येमहोच्छुष्मांपदद्वये ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषुच मध्याद्यह्रस्वबीजाड्यान्यस्तव्याभूतसंप्रभाः अङ्गानिविन्यसेत्पश्चाज्जा तियुक्तानिषट्क्रमात् ब्रह्मणंविन्यसेद्भालेगायत्र्यासहसंयुतं सावित्र्यासहि तंविष्णुंकपोलेदक्षिणेन्यतः वागीश्वर्यासमायुक्तंवामगण्डेमहेश्वरं श्री यागणपतिंभ्यसेषष्ट्यागणपतिंतथा मध्यकर्णोपरिमितेकर्णगण्डान्त रालयोः न्यस्तव्योवदनेमूलंपुनश्चैतत्तनौन्यसेत् कण्ठमूलेस्तनद्वन्द्वेवामांसे हृदयाम्बुजे सव्यांसेपार्श्वयुगलेनाभिदेशेचदैशिकाः वामांसपार्श्वजठ रेपार्श्वांसापरकेहृदि ब्रह्मण्याद्यास्ततोन्यस्याविधिनाप्रोक्तलक्षणाः मू लेनव्यापकंदेहेन्यसेद्देवींविचिन्तयेत् ओंउद्यद्दिनद्युतिमि न्दुकिरीटांतुङ्गकुचांनयनत्रययुक्तां स्मेरमुखींवरदाभयपाशाभीति पृ० १ब) करांप्रभुजेभुवनेशीं प्रजपेन्मन्त्रविन्मन्त्रंद्वात्रिंशल्लक्षमानतः त्रिस्द्वादयुक्तै र्जुहुयादष्टद्रव्यैर्दशांशतः दद्यादर्घ्यंदिनेशायतत्रसंचिन्त्यपार्वतीं पद्मम ष्टदलंध्यायेत्पद्मंषोडशभिदलैः विलिखेत्कर्णिकामध्येषट्कोणमतिसुन्द रं ततःसंपूजयेत्पीठंनवशक्तिसमन्वितम् जयाख्याविजयापश्चाद जिताह्यपराजिता नित्याविलासिनीदोग्ध्रावघोरामङ्गलानव बीजाद्य मासनंदत्वामूर्तिंतेनैवकल्पयेत् तस्यां संपूजयेद्देवीमावाह्यावर णैःक्रमात् मध्यप्राग्दक्षिणोदीच्यपश्चिमेषुयथाक्रमं हृल्लेखाद्या स्समभ्यर्च्याः पञ्चभूतसमप्रभाः वरपाशाङ्कुशाभीतिधारिण्योसितभूषणाः स्थानेषुपूर्वमुक्तेषुपूजयेदङ्गदेवताः षट्कोणेषुयजेन्मन्त्रीब्रह्मणमपि श्रीःभुव०प० २ पृ० २अ) तादृशं पश्चान्मिथुनदेवताः इन्द्रकोणेलसद्दण्डकुण्डिकाक्षगु णाभयं गायत्रींपूजयेन्मन्त्रीब्रह्मणमपितादृशं वायुकोणेपरश्व क्षमालाभयवरान्वितां यजेत्सरस्वतीमस्थांरुद्रंतादृशलक्षणं वह्नि कोणेयजेद्रत्नकुम्भारत्नकरण्ध्रकं कराभ्यांविभ्रतंपीतुन्दिलंधननायकं आलिङ्ग्यसव्यहस्तेनवामेनाम्बुजधारिणीं धनटङ्कसमारूढांमहाल क्ष्मींप्रपूजयेत् पाणिनारमणाङ्कस्थांरतिंसम्यक्समुच्चयेत् वरु णंमदनंबाणपाशाङ्कुशशरासनं धारयन्तंस्वमारक्तंपूजयेद्रक्त भूषणं सव्येनपतिमाश्लिष्टवामेनोत्पलधारिणीं ईशानेपूजयेत्स म्यग्विग्नराजंप्रियान्वितम् सृणिपाशधरंकान्तावराङ्गस्पृक्कराङ्गु पृ० २ब) लिं माध्वीपूर्णकपालाढ्यंवर्णराजंदिगम्बरं पुष्कलंविगलद्रत्नस्फु रच्चषकधारिणीं सिन्दूरचषकारांसमुद्रामदविभ्रमां धृतरक्तोत्पला मस्याः पाणिनाउद्धृजस्पृशं आश्लिष्टकान्तामरुणांपुष्टिमर्चेद्दिगम्बरं कर्णिकायांनिधीपूज्योषट्कोणस्याथपार्श्वयोः अङ्गानिकेसरेष्वेताःपश्चा त्पत्रेषुपूजयेत् अनङ्गकुसुमापश्चादनङ्गकुसुमातुरा पश्चादनङ्ग मदनात्वनङ्गमदनातुरा भुवनपालागगनावेगाचैवततःपरं शशिरे खाचगगनेरेखाचेत्यष्टशक्तयः पाशाङ्कुशवराभीतिधारिण्योरुणवि ग्रहाः शुद्धामेधामतिःकान्तिरार्याषोडशशक्तयः खड्गखेटकधारि ण्यःश्यामापूज्याश्चमातरः पद्माद्बहिःसमभ्यर्च्याः शक्तयाःपरि चारकाः प्रथमानङ्गरूपास्यादनङ्गमदनातुरा मदनातुराचभुवन श्रीःभुवप ३ पृ० ३अ) वेगाभुवनमालिका स्यात्पूर्वमदनानङ्गवदनानङ्गमेखला चषकंताल वृत्तंचताम्बुलंछत्रमज्ज्वलं चामरंचषकंपुष्पंविभ्राणाःकरपङ्कजैः स र्वाभरणसंदीप्तांल्लोकपालान्बहिर्यजेत् पूजितेसकलैदेवैःकिं पुनर्मनुजोत्तमैः मन्त्रीत्रिमधुरोपेतैर्हत्वाश्वर्थसमित्वरैः ब्रह्मणंवशये च्छीघ्रंपार्थिवान्पद्महोमतः पलाशपुष्पैस्तत्पत्रैर्मन्त्रिणःकुसुमैर पि पंचविंशतिसंजप्तैर्जलैःस्नानैर्दिनेदिने आत्मानमभिषङ्चे द्यस्सर्वसौभाग्यवान्भवेत् पञ्चविंशतिसंजप्तंजलंप्रातःपिबेन्नरः अवाप्यमहतींप्रज्ञांकवीनामग्रणीर्भवेत् कर्पूरागुरुसंयुक्तंकुङ्कु मंसाधुसाधितं गृहीत्वातिलकंकुर्याद्राजवश्यमनुत्तमम् शालि पृष्टमयींकृत्वापुत्तलींमधुनान्वितां जप्त्वाप्रतिष्ठितप्राणांभक्षयेद्र पृ० ३ब) विवासरे वशंनयतिराजानंनारीवानरमेवच कण्ठमात्रोदकेस्थित्वावी क्ष्यतेखगतंरविं त्रिसहस्रंजपेन्मन्त्रंइष्टकन्यांलभेतसः अन्नंतन्मन्त्रितं मन्त्रीभुञ्जीतश्रीप्रसिद्धये लिखितंभस्मनामायांससाध्यंफल कादिषु तत्कालंचर्चयेद्यन्त्रंमुखंसूयेतगर्भिणी ओंशक्त्यन्तस्स्थित साध्यकर्मभुवनेवह्नेर्वृतंवह्निभिर्बाह्येकोणगतंयतंहरिहरवर्णैर्क पोलार्पितैः पश्चात्तैः पुनरीयुतैर्लिपिभिरप्यावीत्तमिष्ठाक्षयंयन्त्रंभू पुरमध्यगंत्रिगुणितंसौभाग्यसंपत्पदं|| बीजान्तस्स्थितसाध्यंनमामि शिरसौमयारसा मन्मथैर्वीतंवह्निपुरत्वयेरसपुटेष्वाषार्णबी जत्रयं स्वात्मानात्मकमीहिषेहरिहरैराबद्धगण्डंबहिः षड्बीजैर वबद्धसन्धिलिपिभिर्वीतंगृहाभ्यांतवाः ओंचिन्तामणिनृसिं श्रीःभुव०पं ४ पृ० ४अ) हाभ्यां लसत्कोणमिदंलिखेत् यन्त्रंषड्गुणितंदिव्यंवहतांसर्वसिद्धि दं ओंबीजंव्याहृतिभिर्युतंद्विहयुतद्वन्द्वेवसोक्वोणगंदौर्गंबीजमनन्त रेलिपितगैराबद्धगण्डंलिखेत् गायत्र्यारविशक्तिबद्धविवरंत्रिष्टुव्वृ तंतत्ततो वीतंमातृकयाधरापुरयुगेसत्सिंहचिन्तामणिं यन्त्रंदिने शगुणितंप्रोक्तंरक्षाप्रसिद्धिदं सर्वसौभाग्यजननंसर्वशत्रुनिवार कं लिखेत्सर * * * * * * माद्येदलेषुप्यभिलिख्यमायाम् स्वरावृत्तय न्त्रमिदंवधूनांपुत्रदंभूमिगृहान्तरस्थं षट्कोणमध्येप्रविलिख्यश क्तिंकोणेषु * * * वविलिख्यभूयः ससाध्यगर्भांवस्वधापुरस्थं यन्त्रंभवेद्वश्यकरंनराणां ओंवाग्भवंशम्भुवनितारमाबीजत्रयात्मकं मन्त्रंसमुद्धरेन्मन्त्रीत्रिवर्गफलसाधनं षड्दीर्घभाजमध्येनवाग्भ पृ० ४ब) वाढ्येनकल्पयेत् षडङ्गानिमनोरम्ययानियुक्तानिमन्त्रवित् कुर्यात्पूर्वोचि तान्न्यासांस्तवंतत्रापिसाधकाः ओंसिन्दूरारुणविग्रहंत्रिनयनोमाणि क्यमौलिस्फुरत्तारानायकशेखरांस्मितमुखींआपीनवक्षोरुहां पाणि भ्यामपिपूर्णरत्नचषकंरक्तोत्पलंबिभ्रतीं सौम्यांरक्तघटस्थसव्यचर णांध्यायेत्परामम्बिकां रविलक्षंजपेन्मन्त्रीपायसैर्मधुरप्लवैः दशां शंध्वाहुयान्मन्त्रीपीठेप्रागौरितेयजेत् देवींप्रागुक्तमार्गेणगन्धाद्यै रतिशोभनैः हुत्वापलाशकुसुमैर्वाक्प्रियंमहतींव्रजेत् ब्रह्मघृतं पिबेज्जप्तंकवित्वंवत्स्वरान्भवेत् सिद्धर्थाल्लवणोपेतान्हुत्वामन्त्रीवशं नयेत् नरनारींनरपतिंनात्रकार्याविचारणा चतुरङ्गुलैःपुष्पैश्च चन्दनाम्भस्ममुक्षितैः हुत्वावशीकरोत्याशुत्र्यैलोक्यमपिसाधकाः श्रीःभुव०पं० ५ पृ० ५अ) जुहुयादरुणाम्भोजैरयुतंमधुरप्लुतैः राज्यश्रियमवाप्नोतिसतिलैस्तण्डुलै स्तथा प्रागुक्तान्यपिकर्माणिमन्त्रेणानेनमारयेत् वाग्बीजपुटितामा याविद्येयंत्र्यक्षरीमता मध्येनदीर्घयुक्तेनवाकुटस्थेनकल्पयेत् अ ङ्गानिजातियुक्तानिक्रमेणमन्त्रवित्तमः यथापुरासमुदिष्टंन्यासंकु र्वीतमन्त्रवित्|| ओंश्यामाङ्गींशशिशेखरांनिजकरैर्दानंचरक्तो त्पलैः रत्नाढ्यांचषकंवरंभयहरंसंविभ्रतींशाश्वतं मुक्ताहारलसत्प योधरनतांनेत्रत्रयोल्लासिनीं वन्देहंस्वरपूजितांहरवधुंरक्तारविन्द स्थितां तत्वलक्षंजपेन्मन्त्रंजुहुयात्तदशांशतः पलाशपुष्पैस्तत्पत्रै पुष्पैर्वाराजवृक्षकैः हृल्लेखाविहितेपीठेपूजयेत्परमेश्वरीं मद्यादि पूजयेन्मन्त्रीहृल्लेखाद्याःपुरोहिताः मिथुनानियजेन्मन्त्रीषट्कोणे पृ० ५ब) षुयथापुरा अङ्गपूजाकेसरेषुपूज्याःपत्रेषुमातरः भैरवाङ्कसमारू ढाःस्मेरवक्त्रामदालसाः असिताङ्गोरुरुश्चण्डःक्रोधश्चोन्मत्तसंज्ञकः कपालीभीषणःपश्चासंहारश्चाष्टभैरवाः शूलंकपालंप्रीतंचबि भ्राणाःक्षुद्रदुन्दुभिं गणत्वगम्बराभीमाःकुटिलालकशोभिनः दीर्घाद्यामातरःप्रोक्ताह्रस्वाद्याभैरवाःस्मृताः पूज्याःषोडशपत्रेषु करालाद्याःपुरोहिताः तद्बाह्येनङ्गरूपाढ्यालोकेशास्त्राणित द्बहिः एवमाराधयेद्देवींशास्त्रोक्तेनैववर्त्मना वशंनयतिराजा नंवनिताश्चमदालसाः अन्नमाण्येनजुहुयाल्लभतेवसवाञ्छितं सुगन्धैःकुसुमैभ्युश्वश्रियमाप्नोतिवाञ्छितां मन्त्रेणानेनसंजप्त मश्नीयादन्नंयोबहु भवेदरोगीनय वान्दीर्घमायुरवाप्नुयात् श्रीःभुवपं० ६ पृ० ६अ) अनन्तोबिन्दुसंयुक्तोमायांब्रह्माग्नितारवान् मायादित्र्यक्षरोमन्त्रः सर्ववश्यफलप्रदः ऋष्याद्यःपूर्वमुक्ताःस्याद्बीजेनाङ्गक्रियामता ओंवराङ्कुशौपाशमभीतिमुद्रांकरैर्वहन्तींकमलासनस्थां बाला र्ककोटिप्रतिमांत्रिनेत्रांभजेहमाद्यांभुवनीश्वरींतां हविष्यभुग्ज पेन्मन्त्रंतत्वलक्षंजितेन्द्रियः तत्सहस्रप्रजुहुयाजपान्तेमन्त्रवित्त मः दधिक्षौद्रघृताक्ताभिःसमिद्भिःक्षीरभूरुहां तत्संख्यया तिलैःशुद्धैःपयसाक्तैर्जुहुयात्ततः हृल्लेखावहितेपीठनव शक्तिसमन्विते अर्चयेत्परमेशानींवक्ष्यमानक्रमेणतां इन्द्रा दयः पन्नःपूज्यस्तेषामस्त्राणितद्बहिः एवंसंपूजयेद्देवी साक्षाद्वैश्रवणोभवेत् पूज्यतेसकलैःलोकैस्तेजसाभास्करोपमः पृ० ६ब) अनन्ताधिष्ठितंगेहंनिशिदीपशिखाकुलं दृश्यतेप्राणिभिःसर्वैर्मन्त्रस्या स्यप्रभावतः सर्षपैर्लाजसंमिश्रैराज्यार्थीजुहुयान्निशि राजानंवशयेत्सद्याः तत्पत्नीमपिसाधकः अन्नवानन्नहोमेनश्रीमान्पद्महुतोभवेत् राजवृक्ष समुद्भूतैःपुष्पैहुत्वाकविर्भवेत् अरोगीतिलहोमेनघृतेनायुरवाप्नुयात् प्रागुक्ताण्यपिकर्माणिसाधयेत्साधकोत्तमैः ओंआलिख्याष्टदिगर्गलान्यु दरगंधाशाठिकंत्र्यक्षरंकोष्ठेष्वङ्गमनून्परेषुविलिख्येदष्टाभमन्त्र द्वयं अभ्युबापरषट्कयुग्मधुवरव्योमासनानर्गलेष्वालिख्येन्द्रजलाधिपादि गुणशः पङ्क्तिद्वयातत्परं कोष्ठेषुष्वयुगार्णमात्मसमतांयुग्मस्वगन्तर्गतां मायांकेसरगांदलेषुविलिखेन्मूलंत्रिपङ्क्तिक्रमात् त्रिःपाशाङ्कुशवे ष्टितलिपिभिरावीतंक्रमाद्व्युत्क्रमात्पद्मस्थेनघटेनपङ्कजमुखेनावेष्टि तंतद्बहिःघटार्गलमिदंमन्त्रंमन्त्रिणांप्रावृतमतं पाशश्री श्रीःभुवश्वप० ७ पृ० ७अ) शक्तिकारान्द * * कामशक्तिर्दिशाङ्कुशः प्रथमोष्टाक्षरोमन्त्रःततःकामिनिरञ्जिनि स्वाहान्तोष्टाक्षरःसद्भिरपरःकीर्तितोमनुः ह्रींगौरिरुद्रदयितेयोगीश्वरिस वर्मफट् द्विधान्तष्षोडशार्णोयंमन्त्रःसद्भिरुदीरितः लिखित्वाभूर्जपत्रा दौयन्त्रमेतद्यथाविधि धारयेद्वामबाहौवाकण्ठेवानिजमूर्धनि वशयेत्सक लान्देवान्विश्वेषेणमहीपतीन् नीलपट्टेविलिख्यैतद्गुटिकौकृत्यतत्पुनः साध्यप्रतिकृतेसिक्तनिर्मितायाहृदिन्यसेत् पात्रेत्रिमधुरापूर्णेनिक्षि प्यैनांविधानवित् संक्षिप्यगन्धपुष्पाद्यैःबलिंनिक्षिप्यरात्रिषु मूलमन्त्रंज पेन्मन्त्रीनित्यमष्टसहस्रकं सप्ताहाद्बाञ्छितांनारीमाकर्षन्स्मरविह्वलां भूर्जपत्रेविलिख्यैतद्गुटिकाकृत्यतत्पुनः लाक्षयाताम्ररजतकाञ्चनैर्वेष्ट येत्क्रमात् तत्कुम्भेन्यस्यसंपूज्ययथावद्भुवनेश्वरीं संस्पृश्यैतांजपेन्मन्त्रंदिवा करसहस्रकं अभिषिञ्च्यप्रियंसाध्यवध्नीयाद्घटसन्निधौ कान्तिपुष्टि पृ० ७ब) धरारोग्यश्रेयांसिलभतेनरः भित्तौविलिख्यतद्यन्त्रंपूजयेन्नित्यमादरात् भू तप्रेतपिशाचास्तेनवीक्षितुमपिक्षमाः तद्विलिख्यशिरस्त्राणेसाधयेद्धा रितंभटः युद्धेरिपून्बहून्हत्वाजयमाप्नोतिपार्थिवः वज्राङ्कितेवह्निपुरेद्व येतांपाशाङ्कुशाढ्यांउदरस्थसाद्यां मध्येष्टकोणेष्वचबाह्यपद्मैः पुनःपु नस्तांविलिखेत्समन्त्रां भूर्जेलिखितमेतत्स्यात्सर्ववश्यङ्करंपरं आरोग्यैश्वर्यजन नंयुद्धेष्वविजयप्रदं लिखेत्सरोजेसुकरेस्वराढ्येवर्गाष्टपत्त्रेवसुधापुरस्थे पाशाङ्कुशाभ्यांगुणशःप्रबोधां मायांलिखेन्मध्यगतांसमाद्यां सर्वेषां स्वमिदंमन्त्रंधारितंकुरुतेनृणां आरोग्यैश्वर्यसौभाग्यंविजयादीननारतं इतिश्रीरुद्रयामलेतन्त्रेदशविद्यारहस्यभुवनेश्वरीपटलंसमाप्तम्|| || शुभं|| श्रीःभुव०श्व०प० ८ पृ० ८अ) ओंअथवक्ष्येजगद्धात्रीमधुनाभुवनेश्वरीं ब्रह्मादयोपियांज्ञात्वालेभिरेश्रियमुत्तमां अथपूजाविधिंवक्ष्येसर्वकामार्थसिद्धये ब्राह्म्येमुहर्तेउत्थायबद्धपद्मासनः स्वशिरसिसहस्रदलकमलेगुरुंध्यायेत् प्रातःशिरसिशुक्लाब्जेत्रिनेत्रंवि मलंगुरुं वराभयकरंशान्तंस्मरेत्तन्नामपूर्वकं इतिध्यात्वामानसोपचारै रभ्यर्च्यप्रणमेत् अखण्डमण्डलाकारंव्याप्तंयेनचराचरं तत्पदंदर्शितं येनतस्मैश्रीगुरवेनमः ततोहृत्पद्मेदेवींध्यायेत् ओंउद्यद्दिनकृद्द्युति मिन्दुकिरीटांतुङ्गकुचांनयनत्रययुक्तां स्मेरमुखींवरदाङ्कुशपाशा भीतिकरींप्रभजेभुवनेशीम् इतिध्यात्वा मूलंदशधाजप्त्वानमस्कृ त्यात्मानंतद्द्रूपंविभाव्यावश्यकार्थंबहिर्गच्छेत् ततागत्यनद्यादौगत्वा मलविशोधनं स्नानंकृत्वा तिलकुशमादायश्रीपरदेवतार्चनयोग्यता पृ० ८ब) सिद्ध्यर्थंस्नानमहङ्करिष्ये इतिसङ्कल्प्यत्रिर्निमज्ज्योर्थायमूलंजपन् कुम्भमुद्रयाश्री भुवनेश्वरीमभिषिञ्चामिनमितिवारत्रयंमूर्ध्निजलंक्षिप्त्वापुनर्निमज्ज्याचम्यतर्पणं कृत्वामूलमुच्चरंस्तर्पयामिस्वाहा इतित्रिवारंसन्तर्प्यजलादुत्थाय धौतवास सीपरिधायाचम्य गायत्रींयथाशक्तिप्रजप्यरक्तचन्दनाक्षतकुसुमैस्ताम्र पात्रमापूर्यहस्ताभ्यांगृहीत्वा एषोर्घोभगवतेसूर्यायनमः इत्यर्घ्यंदत्वानमस्कु र्यात् ततोहृदिविद्यांभावयन्मौनीगृहंगच्छेत् धंधनदायैविद्महेश्रीरति प्रियायैधीमहि तन्नःस्वाहा प्रचोदयात् ततोगृहद्वारमागत्यमण्डपंप्र विश्यपुष्पंगृहित्वा आधारशक्तिकमलासनायनमित्यासनंसंपूज्य तदु परिप्राङ्मुखोदङ्मुखोवोपविश्य वामकपोलेगुरुभ्योनमः दक्षिणेगणेशा श्रीःभुवनेश्वप० ९ पृ० ९अ) यनमः मध्येभुवनेश्वर्यैनमः नमस्कृत्यभूतशुद्धिंकुर्यात् मूलाधारात्सर्वतत्वसहितांकु ण्डलिनींसहस्रदलपद्मेनीत्वा वामकुक्षौपापपुरुषंब्रह्महत्याशिरस्कंच स्वर्णस्तेयभुजद्वयं स्वरापानहृदायुक्तं गुरुतल्पकटिद्वयं तत्संसर्गिपद द्वन्द्वमङ्गप्रत्यङ्गपातकं उपपातकरोमाणंरक्तस्मश्रुविलोचनं खड्गच र्मधरंकृष्णंवामकुक्षौविचिन्तयेत् यमितिवायुबीजंषोडषवारजप्तं वामनासापुटेनपूरकंचतुष्षष्टिवारंकुम्भकं कुर्वन् पापपुरुषं शरीरंसंशोध्य पुनर्द्वात्रिंशद्वारजपन्दक्षिननासापुटेनरेचयेत् इतिप्रथमप्राणायामः एषेवविपर्येयेणद्वितीयप्राणायामःप्र थवत्तृतीयप्राणायामः ललाटचन्द्रादकारादिक्षकारान्तामक्षरम पृ० ९ब) यींवृष्टिंनिपात्यलमितिपृथिवीबीजेनसशरीरंदृढींकृत्यहमितिशुद्धबी जेनसुचेतनंविभाव्य आंह्रींक्रोंयंरंलंवंशंषंसंहंलंक्षः ममप्राणाः ममजीविहस्थिताः १ ममवाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणप्राणा इहागत्यसुखंचिरंतिष्ठेतुस्वाहा इतिप्राणप्रतिष्ठांकृत्वादेवींहृदिसं चिन्त्य तत्वानियथास्थानेस्थापयेत् इतिभूतशुद्धिः ततोमूलेनपूर्वोक्त वत्प्राणायामंकुर्यात् संहारचक्रेणमातृकांन्यस्य पुनःसृष्टिक्रमेण न्यसेत् र्क्षःनमःपरमात्मनेहृदादिपादान्तंइत्यादिसृष्टिक्रमः अ नमोललाटेइत्यादिक्रमेण ततःसङ्कल्पः ओंअस्यश्रीभुवनेश्वरीमन्त्रस्य शक्तिःऋषिःगायत्रीच्छन्दः श्रीभुवनेश्वरीदेवता ह्रींबीजंश्रींशक्तिः क्लींकीलकं अभीष्टसिद्ध्यर्थे विनियोगः मूलेनव्यापकंकुर्यात् श्रीःभुव०प० १० पृ० १०अ) मस्तकेहृल्लेखायैनमः गुह्येइंकरालिकायैनमः पादद्वन्द्वेओंमहोच्छुष्मायैनमः सर्वाङ्गेषु ओंऐंइंओंहृल्लेखायैनमः इत्यादिक्रमेणन्यसेत् ऊर्ध्वमुखे ओंहृल्लेखायैनमः पूर्वमुखे ऐंगगनायैनमः दक्षमुखे उंरक्तायैनमः उत्तरमुखे इंकरालिकायैनमः पश्चिममुखेओंमहोच्छुष्मायैनमः इति विन्यस्यकराङ्गन्यासंकुर्यात् ओंह्रांहृ० ओंह्रींशि० ओंह्रुंशि० ओंह्रैंक० ओं ह्रौंनेत्राभ्यां ओंह्रःअस्त्रा० ओंएवंकरन्यासः इत्युर्ध्वंतालत्रयंपूर्वव द्दिग्बन्धनंकुर्यात् भालेब्रह्मगायत्रीभ्यांनमः दक्षिणेकपोलेसावित्री विष्णुभ्यांनमः वामगण्डेवागीश्वरीमहेश्वरीभ्यांनमः वामकण्ठे श्रीस हितधनपतयेनमः मुखेरतिसहितस्मरायनमः सव्यकर्णेपुरपुष्टि सहितगणपतयेनमः दक्षिकर्णेशङ्खनिधयेनमः वामकर्णे पद्मनि पृ० १०ब) धयेनमः मुखेमूलंन्यसेत् कण्ठमूलेगायत्रीसहितब्रह्मणेनमः दक्षि हस्तेसावित्रेसहितविष्णवेनमः वामहस्तेवागीश्वरीसहितमहेश्वराय नमः दक्षांसेश्रीसहितायधनपतयेनमः पादयोः शङ्खनिधयेनमः पद्मनिधयेनमः नाभौमूलंब्राह्मैनमः वामांसे माहेश्वर्यैनमः वाम पार्श्वेकौमार्यैनमः जठरेवैष्णव्यैनमः दक्षिपार्श्वे वाराह्यैनमः द क्षांसेइन्द्राण्यैनमः गलपृष्ठेचामुण्डायैनमः हृदयेमहालक्ष्म्यैनमः मू लेनव्यापकंकुर्यात् ततोहृत्पद्मेदेवींध्यायेत् मानसोपचारैराराध्यन मस्कृत्यचक्रमुद्धृत्ययथोक्तपीठेस्थापयेत् यथापद्ममष्टदलंबा ह्येवृत्तंषोडशभिर्दलैःविलिखेत्कर्णिकामध्यषट्कोणमतिसुन्दरंआ चरोद्भूगृहंतद्वदितिचक्रंसमुद्धरेत् यथोक्तपीठेसंस्थाप्य अर्घ्यपात्रंसंस्थापयेत् स्ववामेत्रिकोणवृत्तमण्डलंकृत्वा तदु श्रीःभुवप० ११ पृ० ११अ) परित्रिपादिकामारोप्यवह्निमण्डलायदशकलात्मनेनमः इतिसंपूज्य तदु परिपात्रंसंस्थाप्य अंसूर्यमण्डलायद्वादशकलात्मनेनमः इतिसंपूज्य तदुपरिपात्रंसंस्थाप्य संपूज्यमूलेनजलंप्रक्षिप्य गंगङ्गेतितीर्थमा मावाह्यसौःसोममण्डलायषोडशकलात्मनेनमः इतिसंपूज्य मूलंअष्टधाजप्त्वावमितिधेनुमुद्रयामृतीकृत्यअस्त्रायफट् इ तिछोटिकाभिर्दशदिग्बन्धनंविधाय तदुपरिमूलमष्टधाजप्त्वा गन्धपुष्पाक्षतान्निक्षिप्यभगवतीश्रीभुवनेश्वरिइहागच्छत्यावाह्य तदर्घ्यदेवतात्मकंभावयेत् ततःसामान्यार्घक्रमेणअन्यानिपा त्राणिस्थापयेत् तेनोदकेनात्मानंपूजोपकरणंचाभ्युक्ष्यसर्वं विद्यामयंकुर्यात् छत्रोपरिकर्णिकायां ओंकालाग्निरुद्रायनमः आधारशक्त्यैनमः कमठायनमः प्रकृत्यैनमः कूर्मायनमः अनन्ता पृ० ११ब) यनमः पृथिव्यैनमः क्षीरसमुद्रायनमः रत्नद्वीपायनमः कादम्बवनाय नमः कल्पवृक्षायनमः मणिमण्डपायनमः रत्नसिंहासनायनमः आ ग्नेयेधर्मायनमः नैऋतेज्ञानायनमः वायव्येवैराग्यायनमः ईशानेऐश्वर्या यनमः पूर्वेअधर्मायनमः दक्षिणेअज्ञानायनमः पश्चिमेअवैराग्याय नमः उत्तरेअनैश्वर्यायनमः कर्णिकायांरंअग्निमण्डलायदश कलात्मनेनमः अंअर्कमण्डलायद्वादशकलात्मनेनमः सौःसोमम ण्डलायषोडशकलात्मनेनमः संसत्वायनमः रंरजसेनमः तंतमसे नमः अंअनन्तरात्मनेनमः पंपरमात्मनेनमः ह्रीज्ञानात्मनेनमः ततः केसरेषुनवशक्तीःपूजयेत् अघोरायनमः मङ्गलायनमः ह्सौंःस दाशिवमहाप्रेतपद्मासनायनमः उमायैनमः जयायैनमः जयन्त्यैनमः अजितायैनमः अपराजितायैनमः नित्यायैनमः विलासिन्यैनमः दोग्द्ध्रे श्रीःभुव०प १२ पृ० १२अ) इति दिनकरकरणाञ्जलौवहन्नामपुटेनस्वहृदयाद्देवीमानीयह्रींभुव नेश्वरीममृतचैतन्यमूर्तिंकल्पयामिनमः इतिमूर्तिंसङ्कल्प्य यन्त्रोपरि पुष्पंदत्वाप्राणप्रतिष्ठांचरेत् अंह्रींक्रोंयंरंलंवंशंषंसंहंलंक्षःभु वनेश्वर्याः प्राणाइहप्राणाः १६ भुवनेश्वर्याजीविहस्थितः १७ भु वनेश्वर्याः सर्वेन्द्रियाणिवाङ्मनस्त्वक्चक्षुश्रोत्रजिह्वाघ्राणप्राणाइहा गत्यसुखंचिरंतिष्ठन्तुस्वाहा भगवतिभुवनेश्वरिइहागच्छिहसन्ति ष्ठ सन्निहितोभव सन्निरुद्धोभव अत्राधिष्ठानंकुरुममपूजांगृहाण नमः देव्यङ्गेह्रींहृदयायनमःइत्यादि तालुत्रयपूर्वंदिग्बन्धंकु र्यात् ततःकरकच्छपिकांबद्ध्वाध्यायेत् उद्यद्दिनकृद्द्युतिमिति षो डशोपचारैःपूजयेत् अथाऽसनं स्वागतंचार्घ्यमितिपूर्वं लिखितमस्ति इदमाचमनीयंस्वागतमिति कुशलप्रश्नंश्री पृ० १२ब) भुवनेश्वर्याइदमर्घ्यंइदंपाद्यंइदमाचमनीयंएषमधुपर्कः इदंपु नराचमनीयं इदंवस्त्रं एतान्याभरणानि एषगन्धः इदंपुष्पं ए षधूपः एषदीपः नैवेद्यंपुरतस्समानीय अर्घोदकेनास्त्रायफ डितिप्रोक्ष्यहूमित्यवगुण्ठ्यलपितिधेनुमुद्रयामृतीकृत्यमूल मष्टधाजप्त्वा इदंनैवेद्यंभुवनेश्वर्यैनमः इत्युत्सृज्य आज्यजलं हस्तेकृत्वा अमृतोपस्तरणमसीतिस्वाहा जलगण्डूषंदत्वा प्राणायस्वाधा अपानायस्वाहा समानायस्वाहा उदानायस्वाहा व्यानायस्वाहा इतिहुत्वाजलंगृहीत्वाऽमृतपिठानमसिस्वाहा इतिजलंदत्वा पुनराचमनीयं एतत्ताम्बुलमितिपुष्पाञ्जलित्रये णसंपूज्यमूलंजपेत् अङ्गुष्टानामिकाभ्यांश्रीभुवनेश्वरींतर्प यामिस्वाहेतिवारत्रयंसन्तर्प्य अग्निकोणेह्रांहृदयायनमःइ त्यादि दक्षिणपश्चिमोत्तरेषुह्रःअस्त्रायफडितिपूजयेत् श्रीःभुवप० १३ पृ० १३अ) आवरणपूजांचरेत् कर्णिकामध्येहृल्लेखायैनमः पूर्वेएंगगना यैनमः दक्षिणंउंरक्तायैनमः उत्तरेइंकरालिकायैनमः पश्चिमे म होच्छुष्मायैनमः आग्नेयादिकोणेषु अग्रे ह्रींहृदयायनमःइत्या दि ह्रःअस्त्रायफडित्रिपूजयेत् षट्कोणेषु पूर्वकोणेगायत्री सहितब्रह्मणेनमः नैऋतेसावित्रीसहितविष्णवेनमः वाय व्ये सरस्वतीसहितरुद्रायनमः आग्नेयेलक्ष्मीसहितकुबेराय नमः वरुणकोणेरतिसहितमदनायनमः ईशानेपुष्टिसहि तविघ्नराजायनमः षट्कोणेपार्श्वयोःशङ्खनिधयेनमः पद्म निधयेनमः आग्नेयादिकेसरेषुहृदादिशिरःशिखाकवचानिअ ग्रेनेत्रंदिक्षुसंपूजयेत् पूर्वाद्दिष्टदलेषु अनङ्गकुसुमायैनमः अनङ्गकुसुमातुरायैनमः अनङ्गमदनायैनमः अनङ्गमदनातुरा यैनमः भुवनपालायैनमः गगनवेगायैनमः शशिरेखायैनमः पृ० १३ब) इतिसंपूज्यपूर्वादिषोडशदशेषुपूजयेत् कराल्यैनमः विकराल्यैनमः उ मायैनमः सरस्वत्यैनमः श्रियैनमः दुर्गायैनमः उषायैनमः लक्ष्म्यैनमः सत्यायैनमः श्रुत्यैनमः धृत्यैनमः स्मृत्यैनमः श्रद्धायैनमः मेधायैनमः मत्यैनमः रत्यैनमः कान्त्यैनमः आर्यायैनमः इतिपद्माद्बहिःपूर्वादि क्रमेणअनङ्गरूपायैनमः अनङ्गमदनायैनमः भुववेगायैनमः भुवनपालिन्यैनमः सर्वशिशिरायैनमः अनङ्गमदनायैनमः अ नङ्गमेखलायैनमः इतिसंपूज्य तद्बहिःलोकपालान्पूर्वा दिक्रमेणपूजयेत् इन्द्रायनमः अग्नयेनमः यमायनमः निऋतयेनमः वरुणायनमः वायवेनमः कुबेरायनमः ईशा नायनमः ब्रह्मणेनमः अधर्मरन्तायनमः इतिसंपूज्य तद्बहिःअस्त्राणिसंपूजयेदिन्द्रादीनां अथावरणध्यानं श्रीःभुव०प० १४ पृ० १४अ) ओंहृल्लेखाद्यास्समव्यर्च्याःपंचभूतसमप्रभाः वरपाशाङ्कुशाभीतिधा रिण्योसितभूषणाः दण्डकरण्डिकाक्षमालाधारिणौगायत्रीब्रह्मणौ शङ्खचक्रगदापद्मधारिणौपीताम्बरौसावित्रीविष्णुपरश्वक्ष्वमालाभ यहस्तौ सरस्वतीमहेश्वरौरत्नकुम्भमणिकरण्डकधराःरत्तन्दिलारपीडा म्बरःकुवीरस्याङ्कस्थांदक्षिणहस्तेनपद्मधारिणींमहालक्ष्मींवामबा हुनालिङ्ग्यिस्थितःबाणपाशाङ्कुशशरासनहस्तौरक्तमाल्याम्बरध रोमोदनस्तुं दक्षहस्तेनालिङ्ग्यवामेनोत्कलधारिणीरतिःअङ्कुशपाश हस्तःकरेणकान्ताभगंस्पृशन् दिगम्बरोमार्स्वीकपूर्णंकलशंधा रयन्पुष्करेणचषकंधारीरक्तवर्णोविघ्नेशः मदविह्वलारक्त वर्णाएकपाणिनागणेशलिङ्गंस्पृशन्ती अन्येनधृतोत्पलासमा श्लिष्टकान्तादिगम्बरापुष्टिः अनङ्गरूपाद्यास्तुचषकंतालवृन्तंच पृ० १४ब) ताम्बुलंकर्तमुज्ज्वलंचामरंशुक्लपुष्पंचविभ्राणाःकरपङ्कजैःनानाभरणसन्दी प्ता इत्यावरणान्संपूज्य प्राणायामंकृत्वाष्टोत्तरशतंसहस्रंवजपेत् जपं समाप्य प्राणायामकृत्वार्घोदकंगृहीत्वा गुह्यातिगुह्यगोप्त्रीत्वंगृहाणा स्मत्कृतंजपंसिद्धिर्भवतुमेदेवित्वत्प्रसादान्महेश्वरि इतिपठित्वा देव्यावा महस्तेजपंसमर्प्य तेजोरूपंजपफलंगृहीत्वा घण्ठांचवादयस्तवं कृत्वोपविश्यर्घजलंगृहीत्वा इतःपरंप्राणबुद्धिदेहधर्मादिकारतोजाग्र त्स्वप्नसुषुप्त्यवस्थास्वमनसावाचांकर्मणाहस्ताभ्यांपद्भ्यामुदरेणशिश्नायद्य त्कृतंयदुक्तंयत्स्मृतंतत्सर्वंब्रह्मार्पणंभवतुस्वाहा पुनर्जलंगृहीत्वा मांमदीयं सकलंश्रीभुवनेश्वर्यैसमर्पये इदंपुनराचमनी यंश्रीभुवनेश्वर्यैनमः भगवतिश्रीभुवनेश्वरिपूजितासिक्षमस्वेति सं श्रीःभुव०क० १५ पृ० १५अ) हारमुद्रयापुष्पमाघ्रायवहन्नामापुटेनदेवींहृत्पद्मेसमानीयात्मानंत द्रूपंविभाव्यनिर्माल्यंशिरसिधृत्वा नैवेद्यंभुक्त्वा सुखंविहरेदित्रिभुवने श्वरीपूजापद्धतिःसमाप्ता|| शुभं || || || || ओंश्रीदेव्युवाच भुवनेश्याश्चदेवेशययाविद्याःप्रकाशिताः श्रुताश्चाधि गतास्सर्वाःश्रोतुमिच्छाम्यसाम्प्रतं त्रैलोक्यमोहनंनामकवचंयत्पुरोदि तं श्रीभैरवः पार्वतिशृणुवक्ष्यामिसावधानावधारय त्रैलो क्यमङ्गलंनामकवचंमन्त्रविग्रहं सिद्धविद्यामयंदेवि सर्वै श्वर्यप्रदायकं पठनाद्धारणान्मन्त्र्यस्त्रैलोक्यैश्वर्यवान्भवेत् त्रैलोक्य मङ्गलस्यास्यकवचस्यृषिःशिवाः छन्दोविराड्जगद्धात्रीदेव पृ० १५ब) ताभुवनेश्वरी धर्मार्थकाममोक्षार्थेविनियोगःप्रकीर्तितः ओंह्रींबीजंमे शिरःपातुभुवनेशीललाटकं ओंपातुदक्षनेत्रंचेह्रींपातुवामलोच नं श्रींपातुदक्षकर्णंमेत्रिवर्णात्मामहेश्वरा वामकर्णंसदापातुऐं घ्राणंपातुमेसदा ह्रींपातुवदनेदेवीऐंपातुरसनांमम वाक्त्रि पुटात्रिवर्णात्माकण्ठंपातुपरात्रिका श्रींस्कन्दौपातुनियतंह्रींबीजंपा तुसर्वदा क्लींकारत्रिपुरेशानीत्रिपदैश्वर्यदायिनी आंपातुहृद यह्रींमेमध्यदेशंसदावतु ह्रींपातुनाभिदेशंसात्र्यक्षरीभुवनेश्वरी सर्वजीवसदापृष्टंपातुसर्ववशङ्करी ह्रींपातुगुह्यदेशंमेमनो भगवतीकटिं महेश्वरीसदापातुशङ्खिनीजानुयुग्मकं अन्नपू र्णासदापातुस्वाहापातुपदद्वयं सप्तदशाक्षरीपायाद श्रीःभुव०प० १६ पृ० १६अ) न्नपूर्णाखिलंवपुः तारंमायारमाकामाषोडशार्णाततःपरं शिरस्था सर्वतःपातुविंशत्यर्णात्मिकासदा तारंदुर्गेयुगंरक्षानिस्वाहेतिदशा क्षरी जयादुर्गाघनश्यामापातुमांपूर्वतःसदा मायाबीजाधि काचैषादशार्णाचततःपरं उत्तप्तकाञ्चनाभासाजयादुर्गा नलेवतु तारंह्रींदुर्गायैनमःअष्टवर्णात्मिकापरा शङ्खचक्रधनुर्बा णधरामांदक्षिणेवतु महिषमर्दिनिस्वाहावस्ववर्णात्मिकाप रा नैऋत्यांसर्वदापातुमहिषासुरनाशिनी मायापद्मावती स्वाहासप्तर्णापरिकीर्तिता पद्मावतीपद्मसंस्थापश्चिमेमांस दावतु पाशाङ्कुशपुटंमायापाहिमामेश्वरिस्वाहा त्रयोदशा र्णाताराद्याश्वारूढानिलेवतु सरस्वतीपंचशिरोनित्यक्लि पृ० १६ब) न्नेमदद्रवे स्वाहारव्यक्षरेनित्यामामुत्तरेसदावतु तारंमायाचकवचंयेच केचततोवधुः हूंह्रींफट्महाविद्याद्वादशार्णाखिलप्रदा दुरिता ष्टादिभिःपायाच्छिवकोणेसदाचमां ओंक्लींसौःसततंबालासा मूर्ध्वदेशुतोव्रतु बिन्द्वंन्ताभैरवीबालाभूमौमांसर्वदावतु इतितेक कवचंदिव्यंत्रैलोक्यमङ्गलंपरं सारात्सारतरंपुण्यंमहाविद्योघवि ग्रहं अस्यहिपठनान्नित्यंकुबेरोपिधनेश्वरः इन्द्राद्यास्सकलादेवा धारणात्पठनाद्यतः सर्वसिद्धीश्वरास्सन्तस्सर्वैश्वर्यमवाप्नुयुः पुष्पाञ्जलिष्वकंदेव्यैमूलेनैवार्पयेत्सकृत् संवत्सरकृतायास्तु पूजायाःफलमाप्नुयात् प्रीतिमन्योयूतःकृत्वाकमलानिश्चलागृ हे वाणींचवसतेवक्त्रेसत्यंसत्यंनसंशयः योधारयतिपुण्यात्मा श्रीःभुव०स० १७ पृ० १७अ) त्रैलोक्यमङ्गलाभिधं कवचंपरमंपुण्यंअपिपुण्यवतांवरः सर्वैश्वर्य युतोभूत्वात्रैलोक्यविजयोभवेत् पुरुषेदक्षिणेबाहौनारीवामभु जेतथा बहुपुत्रवतीभूत्वावन्द्याचलभतेस्वतान् ब्रह्मस्त्रादीनि शस्त्राणिनैवकृन्तन्तितंजनं एतत्कवचमज्ञात्वायोजपेद्भुवनेश्वरीं दारिद्र्यंकवचंप्राप्यचिरान्मृत्युमवाप्नुयात्|| इतिश्रीत्रैलोक्यमोहनंनामभुवनेश्वरीकवचंसमाप्तं|| अथवक्ष्येजगद्धात्रीमधुनाभुवनेश्वरी तस्यानामसहस्रंवैकथ यामिसमासतः यस्याःस्मरमात्रेणसर्वपापैःप्रमुच्यते आराधनाद्भवेद्यस्यजीवन्मुक्तोनसंशयः|| अस्यश्रीभुवने पृ० १७ब) श्वर्यास्सहस्रनाममन्त्रस्यदक्षिणामूर्तिऋषिःपङ्क्तिश्छन्दःआद्याश्रीभुवनेश्व रीदेवताधर्मार्थकाममोक्षार्थेजपेविनियोगः|| || ओंआद्यामा यापराशक्तिःश्रींह्रींक्लींभुवनेश्वरी भुवनाभवनाभव्याभवानीभवभावि नी रुद्राणीभावभक्ताचतथारुद्रप्रियासती उमाकात्यायनीदुर्गामङ्गला सर्वमङ्गला त्रिपुरापरमेशानीसुन्दरीसुन्दरप्रिया रमणारमतीरा मारामकार्यकरीशुभा ब्राह्मीनारायणीचण्डाचामुण्डामुण्डनाशका महीश्वरीचकौमारीवाराहीचापराजिता महामायामुक्तके शीमहात्रिपुरसुन्दरी सुन्दरीशोभनारक्तारक्तवस्त्रापिठायिनी रक्ताक्षीरक्तचक्राचरक्तबीजनिसूदिनी रक्तचन्दनसिक्ताङ्गी रक्तपुष्पप्रियासदा लक्ष्मीलोलाचञ्चलाक्षीचञ्चलाचपल श्रीःभुव०स० १८ पृ० १८अ) प्रिया भैरवीभयहर्त्रीचमहाभयविनाशिनी जयाचविजयाचैवजयपूर्वाज यप्रदा यमुनायामुनायाम्यायमानुजायमप्रिया सर्वेषांजनिकाजन्याजनहा जनतार्तिहा कालीकपालिनीकुल्लाकालिकाकालरात्रिका महाकालाहृदि स्थाचकालभैरवरूपिणी कपालखट्वाङ्गधरापाशाङ्कुशविधारिणी अभ याचभयाचैवतथाचभयनाशिनी महाभयप्रदात्रीचतथाचभयनाशिनी महाभयप्रदात्रीचतथाचवनहस्तिनी गौरीगौराङ्गिनीगौरागौरवर्णाज यप्रदा उग्राचोग्रप्रभाशान्तिःशान्तिश्चशान्तिनाशिनी उग्रतारातथाचोग्रानी लाचैकजटातथा हांहाहूहतेतारातथाचसिद्धकालिका तारानी नीलाचवागीशीतथानीलसरस्वती गङ्गाकाशीसतीसत्यासर्वतीर्थम यीतथा पुण्यकालापुण्यसंस्थातथापुण्यजनप्रिया तुलसीतत्तोला पृ० १८ब) तोत्राराधिकाराधनप्रिया सत्यासत्यसत्यभामारुक्मिणीकृष्णवल्लभा देवकीकृष्णमाताचसुभद्राभद्ररूपिणी मनोहरितथासौम्याश्या माङ्गीसमदर्शना घोररूपाघोरतेजाघोरवत्प्रियदर्शना कुमारी कालिकाक्षुद्राकुमारीरूपधारिणी युवतीयुवतीरूपायुवतीर सरञ्जिका पीनस्तनीक्षुद्रमध्याप्रौढमध्याजरान्तराः पान प्रियापाविनीचपालनापालनप्रिया अर्तिवृद्धास्थाणुरूपादे वकार्यकरीशुभा देवमातादितिर्दक्षासर्वमातासनातनी मत्स्याशी मांसभक्ष्याचसुधाशीजनवल्लभा तपस्विनीतपींतप्यातपस्सिद्धि प्रदायिनी हविषाचहविर्भोक्त्रीहव्यकव्यविनाशिनी यजु र्वेदावश्यकरीयज्ञङ्गीयज्ञवल्लभा हैमीहर्म्याहेमरूपामेनमे न्यामनोरमा कैलासवासिनीमुक्ताशिवक्रोडविलासिनी चा र्वङ्गीचारुरूपाचसुवक्त्राचशुभानना लसत्कुण्डलगण्डश्रीः श्रीःभुव०स० १९ पृ० १९अ) लसत्कुण्डलधारिणी महासिंहोपरिस्थाचहेमभूषणभूषि ता हेमङ्गदाहेमभूषासूर्यकोटिसमप्रभा बालादित्यसमाका न्तिःसिन्दूरार्चितविग्रहा जपायावकरूपाचरक्तचन्दनरूप धृक् कोटरीकोटराक्षीचनिलेज्ञाचदिगम्बरा पूतनारालमा ताचशून्यालयनिवासिनी श्मशानवासिनीशून्याहृद्याचदु रवासिनी मधुकैटभहन्त्रीचमहिषासुरघातिनी निसुम्भ सुम्भमथिनीचण्डमुण्डविनाशिनी शिवाख्याशिवरूपाच शिवरात्रिशिवप्रिया शिवदाशिववक्षस्थाशर्वाणीशिवका रिणी इन्द्राणीचेन्द्रकन्याचराजकन्यास्वरप्रिया लज्जाशी लासाधुशीलाकुलस्त्रीकुलभूषिता महाकुलीना पृ० १९ब) निष्कामानिर्लज्जाभूषणान्विता कुलीनाकुलकन्याचतथाकुलविभूषिता अ नन्तानन्तपालाचअनन्तासुरनाशिनी हसन्तीशिवसङ्गेनवाञ्छितानन्ददायि नी नागाङ्गीरागभूषाचनागहारविधारिणी हरिणीधारिणीध न्यामहासिद्धिप्रदायिनी हाकिनीशाकिनीचैवराकिनीकाकिनी तथा भूतप्रेतपिशाचाचयक्षिणीधनदप्रिया धृतिःकी र्तिःस्मृतिर्मेधातुष्टिःपुष्टिरुमारुषा शाङ्करीशाम्भवीसेना रतिः प्रीतिः स्मरातुरा अनङ्गमदनादेवी अनङ्गमदनातु रा भुवनेशीमहामायातथाभुवनपालिनी ईश्वरीचेश्वर प्रीताचन्द्रशेखरभूषणा चित्तानन्दकरीदेवीचित्तसंस्थाज श्रीःभुव०स० २० पृ० २०अ) नस्यच अरूपाबहुरूपाचबहुरूपाचिदात्मिका अनन्तरूपिणीनित्या साधकानन्ददायिनी वनितातरुणीभव्याभाविकाचविभाविनी च न्द्रसूर्यसमादीप्तासूर्यवत्परिपालिनी नारसिंहीहयग्रीवाहिरण्या क्षविनाशिनी वैष्णवीविष्णुभक्ताच सालिग्रामनिवासिनी चतुर्भु जाचाष्टभुजासहस्रभुजसंज्ञिता आद्याकात्यायनीनित्यासर्वस्य सर्वदायिका सर्वमन्त्रमयीदेवीसर्वलोकवशङ्करी रजिनीरञ्जि नीरागादेहलावण्यरञ्जिता नटीनटप्रियाधूर्तातथाधूरजनार्दि नी महामायामहामोहामहासत्वविमोहिता बलिप्रियामांस रुचिन्मधुमांसप्रियासदा मधुमत्तामाधविकामधुमाधव पृ० २०ब) रूपिका दिवामयीरात्रिमयीसन्ध्यासन्ध्यास्वरूपिणी कालरूपासू क्ष्मरूपासूक्ष्मिणीसूक्ष्मचारिणी तिथिरूपावाररूपातथानक्षत्ररूपिणी सर्वभूतमयीदेवीपंचभूतनिवासिनी शून्याकाराशून्यरूपाशून्य संस्थाचरम्भिता आकाशगामिनीदेवीज्योतिश्चक्रनिवासिनी ग्रहा णांस्थितिरूपाचरुद्राणांचक्रसंभवा ऋषीणांब्रह्मपुत्राणांतपस्सि द्धिप्रदायिनी शवस्थाशवरूपाचशवचक्रनिवासिनी योगिनीयो गरूपाचयोगिनांमलहारिणी सुप्रसन्नामहादेवीयामिनीमुक्ति दायिनी निर्मलाविमलाशुद्धाशुद्धसत्वाजयप्रदा महाविद्या महामायामोहिनीविश्वमोहिनी कार्यसिद्धिकरीदेवीसर्व श्रीःभुव०स० २१ पृ० २१अ) कार्यनिवासिनी कार्याकार्यकरीरौद्रीमहाप्रलयकारिणी स्त्रीपुंभेदा द्यभेदाचभेदिनीभेदनाशिनी सर्वरूपासर्वमयीअद्वैतानन्दरूपि णी प्रचण्डचण्डिकाचण्डाचण्डासुरविनाशिनी अरूपाचविरू पाचचित्ररूपाचिदात्मिका बहुशास्त्राशास्त्राचसर्वशास्त्रप्रहा रिणी शास्त्रार्थशास्त्रवादाचनानाशास्त्रार्थवादिनी काव्यशास्त्र प्रमोदाचसर्वशास्त्रप्रहारिणी शास्त्रार्थशास्त्रवादाचनानाशा स्त्रार्थवादिनी काव्यशास्त्रप्रमोदाचकाव्यालङ्कारवासिनी रसज्ञान सनाजिह्वारसामोदारसप्रिया नानाकौतुकसंयुक्तानानारस विलासिनी अरूपाचस्वरूपाचविरूपाचस्वरूपिणी रूपाव पृ० २१ब) श्यातथाजीवावेश्याद्यावेश्यधारिणी नानावेशधरादेवीनानावेशेषुसंस्थि ता कुरूपाकुक्षिजाकृष्णाकृष्णरूपाचकालिका लक्ष्मीप्रदामहाल क्ष्मीःसर्वलक्षणसंयुता कुवेरागृहसंस्थाचधनरूपाधनप्रदा ना नारत्नप्रदादेवीरत्नपुञ्जेषुसंस्थिता वर्णसंस्थावर्णरूपासर्ववर्ण मयीसदा ओंकाररूपिणीवद्याह्यादृताज्योतिरूपिणी संसारमो चिनीदेवीसङ्ग्रामेजयदायिनी मानिनीमानरूपाचमानभङ्गप्रणा शिनी मान्यामानप्रियामेध्यामानिनीमानदायिका साधिकासाधका साध्यासाधिकासाधकप्रिया स्थावराजङ्गमासूक्ष्माचपलाचपल प्रिया वृद्धिदावृद्धिरूपाचसिद्धिदासिद्धिदायिनी क्षेमङ्करी श्रीःभुव०स० २२ पृ० २२अ) शाङ्करीचसर्वसस्मोहकारिणी रञ्जितारञ्जिनीयाचसर्ववाञ्छाप्रदायि नी भगलिङ्गप्रमोदाचभगलिङ्गनिवासिनी भगरूपाभगाभाग्या लिङ्गरूपाचलिङ्गिनी भगगीतिर्महाप्रीतिन्लिङ्गप्रीतिर्महासुखा स्वयम्भूकुसुमाराध्यास्वयम्भूकुसुमाकुला स्वयम्भूपुष्परूपाच स्वयम्भूकुसुमप्रिया शुक्ररूपामहारूपाशुक्रासननिवासिनी शुक्रस्थाशुक्रिनीरूपाशुक्रपूजकपूजिता कामाख्याकामरूपा चयोगिनीपीठवासिनी सर्वपीठमयीदेवीपीठपूजानिवासि नी अक्षमालाधरादेवीपानपात्रविधायिनी शूलिनीशू लहस्ताचपाशिनीपाशरूपिणी खङ्गिनीगदिनीचैवत पृ० २२ब) थासर्वास्त्रधारिणी भव्याभव्याभवानियाभवमुक्तिप्रदायिनी चतुराचतुर प्रीताचतुराननपूजिता देवस्तव्यादेवपूज्यासर्वपूज्यासुरेश्वरी जननी जनरूपाचजनानांचित्तहारिणी जटिलकेशबद्धाचसुकेशीके शबद्धका अहिंसाद्वेषिकाद्वेषासर्वद्वेषविनाशिनी उच्चाटनीस्तम्भि नीचमोहिमुधुराक्षरा क्रीडाक्रीडानिकाखेलाक्रियाकरणकालि का सर्वज्ञासर्वकार्याचसर्वरक्षास्वरारिहा सृष्टिस्थितिकरौदेवी तथाप्रलयकारिणी उक्तानियानिदेवेशिअनूक्तानिमहेश्वरि यत्किञ्चिद्दृश्यतेदेवितत्सर्वंभुवनेश्वरि १००० इतिश्रीभुवनेश्व र्यानामानिकथितानिते सहस्राणिमहादेविफलंतेषांनिगद्य श्रीःभुव०स० २३ पृ० २३अ) ते यःपठेत्प्रातुत्थायअर्धरात्रेतथाप्रिये प्रातःकालेतथामध्येसा याह्नेहरवल्लभे यत्रयत्रपठित्वाचभक्त्यासिद्धिर्नसंशयः यः पठेत्पाठयेद्वापिशृणुयाच्छ्रावयेदथ तत्सर्वंचभवेत्सत्यंमनसायश्च वाञ्छितं अष्टम्यांचचतुर्दश्यांनवम्यांचविशेषतः सर्वमङ्गल संयुक्तेसङ्क्रान्तौशनिभौमयोः यःपठेत्परयाभक्त्यादेव्यानामसहस्र कं तस्यदेवीचसंस्थानंकुरुतेभुवनेश्वरी तस्यकार्येभवेद्देविह्य न्यथानकथञ्चन श्मशानेप्रान्तरेवापिशून्यागारेचतुष्पथे चतुस्पथेचैकलिङ्गेमध्यदेशेतथैवच जलमध्येवह्निमध्येसङ्ग्रामेग्राम शान्तये जप्त्वामन्त्रंसहस्रंतुपठेन्नामसहस्रकं धूपदीपा दिभिश्चै वबलिदानादिकैस्तथा नानाविधैस्तथादेविसर्वदाभुवनेश्वरी संपू पृ० २३ब) ज्यविधिवज्जप्त्वास्तत्वानामसहस्रकैः अचिरासिद्धिमाप्नोतिसाधकोना त्रसंशयः भूर्जपत्रेसमालिख्यकुङ्कुमरक्तचन्दनैः तथागोरोचनाद्यै श्चविलिख्यसाधकोत्तमाः सुतिथौशुभनक्षत्रेलिखित्वादक्षिणेभुजे धारयेत्परयाभक्त्यादेवीरूपेणपार्वति तस्यसिद्धिर्महेशानिह्यचि राश्चभविष्यति रणेराजकुलेवापिसर्वत्रविजयीभवेत् दे वतावशमायातिकिंपुनर्मानवादयः विद्यास्तम्भंगतिस्तम्भंकरो त्येवनसंशयः पठेद्वापाठयेद्वापिदेव्यवस्थश्चपार्वति इह भुक्त्वावरान्भोगान्कृत्वाकाव्यान्सुविस्तरान् अन्तोदेव्यागणत्वंचसा धकोमुक्तिमाप्नुयात् आप्नोतिदेवदेवेशिसर्वथानात्रसंशयः श्रीःभुव०स्त० २४ पृ० २४अ) हीनाङ्गेचातिरिक्ताङ्गेशठेचपरशिष्यके नदातव्यंमहेशानिप्राणान्तेच कदाचन शिष्यायमतिशुद्धायविनेतायमहेश्वरि दातव्यःस्तवराजश्च सर्वसिद्धिप्रदोभवेत् लिखित्वाधारयेद्देहेतस्यदुःखंनजायते यिदं भुवनेश्वर्यास्स्तवराजंमहेश्वरि इतितेकथितंदेविभुवनेश्यास्सहस्रकं सुरतरुवरकान्तिंसिद्धिसङ्घैकसेव्यं यदिपठतिमनुष्योनान्यचेतास्सदै व इहहिसकलभोगान्प्राप्यचान्तेशिवायव्रजतिपरसमीपंसर्व दाभक्तिमन्ते इतिश्रीरुद्रयामलेतन्त्रेदशविद्यारहस्येभु वनेश्वरीसहस्रनामकंसमाप्तम् || || भैरवः || ओंअधुनाशृणुदेवेशिस्तोत्रंतद्गुनिरूपणं सर्वस्वंतत्वविद्यायाःप पृ० २४ब) रापररहस्यकं यस्यकस्यनवक्तव्यंविनाशिष्यायपार्वति || || ओंअस्यश्रीभुव नेश्वरीतत्वविद्यास्तोत्रमन्त्रस्यभैरवृषिःअनुष्टुप्छन्दः श्रीतत्वरूपिणीभुवने श्वरीदेवता ह्रींबीजं ह्रैंशक्तिःह्रःकीलकंसर्वसिद्ध्यर्थेपाठेविनियोगः अथध्यानं ओंउद्यद्दिनकरद्युतिमिन्दुकिरीटांतुङ्गकुचांनयनत्रययुक्तां स्मे रमुखींवरदाङ्कुशपाशाभीतिकरांप्रभजेभुवनेशीं इतिध्यानं ओंवाग्भवं तवशिवेप्रियबीजंध्यायतेयदिनरोचलचेताः तस्यत्वश्चरणपूजनमात्राज्ञा यतेहरि *? धावत्तदासी १ शक्तिबीजमनघंस्वधाकरंसाधकोहृदि जपेद्यदिभक्त्या तस्यस्वर्गललनाश्चरणाच्चौरञ्जयन्तिमुकुटेर्मणियुक्तैः २ मायाबीजंयोजयेत्तेमहेशितत्वंमन्त्रीभक्तिमान्मुक्तिकाङ्क्षी त्वत्सद्दृष्ट्या यातित्वद्धामरस्यंनाकस्त्रीभिर्बीज्यमानःस्वतालैः ३ त्वन्मन्त्रमध्येभुव नेश्वरीतियोनामरामापरिरम्भकाङ्क्षी ध्यायेद्धृदब्जेनशशिखण्डसया तिरम्भांयोनामरामांपरिरभ्यस्वर्गं मायार्णं यःसाधकोध्यायतेन्त श्रीःभुव०स्त० २५ पृ० २५अ) स्तस्यब्रह्मविष्णुसर्वादयस्ते देवाःपादौरञ्जयन्तिस्मनित्यंमौलिस्थैस्तै रिन्द्रनीलादिरत्नैः ५ तत्वरूपिणिभवन्मनुमध्येयोजपेन्तवस्वधाकरमा द्यंजीवितस्यननुसाधकराज्ञोविश्वमेतदखिलंवशमेति ६ मायाबी जंदेविमन्त्रान्तसंस्थं रात्रौवह्निध्यायतेयोहृदन्तः भूमौभूयास्तस्यपा दाब्जयुग्मंरञ्जन्तिस्वैर्मौलिरत्नांशुविम्बैः ७ इतीदंपरमंतत्वंतत्वविद्या स्तवोतुमं रहस्यंभुवनेश्वर्याःसर्वस्वंममपार्वति ८ अङ्गानितत्ववि द्यायायोददातिद्वरात्मने तस्यपूजाजपंहोमंनिष्फलंनात्र?संशयःश्री देवी भगवन्करुणाम्भोधेक्रीडाहंभवताधुना कथनात्तत्वविद्यायानित्यं हिपरमेश्वर|| || इतिश्रीरुद्रयामलेतन्त्रेदशविद्यारहस्येश्रीभु वनेश्वरीस्तवः समाप्तमिदंश्रीभुवनेश्वरीपंचाङ्गमिति शुभंभवतु संततकाशुतिषष्ट्यांपरतासप्तम्यांभौमे लिखितंमयारैआनन्देनस्वत्मार्थंशुभं ########### END OF FILE #######